||गणपती द्वादश नाम स्तोत्र ||

|| अथ श्री गणेशस्तोत्रम् ||

नारद उवाच

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्

भक्तावासं स्मरेन्नित्यम् आयुःकामार्थसिद्धये ||

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्

तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ||

लम्बोदरं पंचमं च षष्ठं विकटमेव च

सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम् ||

नवमं भालचन्द्रं च दशमं तु विनायकम्

एकादशं गणपतिं द्वादशं तु गजाननम् ||

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः

न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ||

विद्यार्थी लभते विद्यां धनार्थी लभते धनम्

पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ||

जपेद् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत्

संवत्सरेण सिद्धिं च लभते नात्र संशयः ||

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत्

तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः ||

| इति श्रीनारदपुराणे संकटनाशननाम गणेशद्वादशनामस्तोत्रं संपूर्णम् |